BookMyAcharyaJi
Ashtakam

Surya · Traditional (spoken by Samba in the Samba Purana tradition)

Surya Ashtakam

Eight verses in praise of the Sun, introduced as the words of Samba, followed by three verses on the fruit of reciting it. Each verse salutes Surya as the great remover of sins, riding a seven-horse chariot, and ends on the line 'I bow to that Surya'. It is chanted on Sundays and at sunrise for health, relief from the troubles of the planets, and prosperity.

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥ १ ॥

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् । श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ २ ॥

लोहितं रथमारूढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ३ ॥

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ४ ॥

बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च । प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ ५ ॥

बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् । एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ६ ॥

तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ७ ॥

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ८ ॥

सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनम् । अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥ ९ ॥

आमिषं मधुपानं च यः करोति रवेर्दिने । सप्तजन्म भवेद्रोगी जन्मजन्म दरिद्रता ॥ १० ॥

स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने । न व्याधिः शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥ ११ ॥

Wording checked against: Sanskrit Documents: sUryAShTakam.itx; Sanskrit Wikisource: सूर्याष्टकम् (Brihat Stotra Ratnakara, 1953); Stotra Nidhi: Surya Ashtakam; Shlokam.org: Surya Ashtakam. Editions differ slightly; follow your family's or guru's version if it differs.