BookMyAcharyaJi
Stotram

Ganesha · Attributed to the Narada Purana (not found in printed editions)

Sankat Nashan Ganesh Stotra

A stotra of eight verses, said in the voice of Narada, that lists the twelve names of Ganesha from Vakratunda to Gajanana and states the fruit of reciting them. It is chanted at the three sandhyas, on Wednesdays and on Sankashti Chaturthi, to remove obstacles and begin work well. The twelve names are the heart of the text.

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥ १ ॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३ ॥

नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥ ५ ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८ ॥

Wording checked against: Sanskrit Documents: Ganeshastotra sankashtanashana (itx, Narada Purana attribution, with scans) https://sanskritdocuments.org/doc_ganesha/ganesha8.html; Stotra Nidhi: Sankata Nasana Ganesha Stotram, Devanagari https://stotranidhi.com/sankata-nasana-ganesha-stotram-in-sanskrit/. Editions differ slightly; follow your family's or guru's version if it differs.